SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ ६०४ शिला लोहसुधारूपादैव भूपालमानवम् । तत्कल्पनं त्रिधा प्रोक्तं निर्माणानां शुभप्रदम् ॥ २ ॥ पञ्चताला सप्तताला वाऽष्टताला क्वचिन्मता | समुचितेषु, रात्रौ दीपप्रकाशो भवेत्तथा तादृशनानारूपदीपपात्रस्थापनं कलयेदित्युपदेशः । एवं तत्र तत्र निर्माणानुगुणं पोतिकाख्यदीपस्थापनेनान्धकारनिरासनेन सर्वेषां प्राणिनां सुखारोग्यादिश्रेयःप्राप्तिरिति स्पष्टमेव ॥ तस्माद्रामनगरादिवास्तुभागेषु कल्पितविविधनिर्माणानां क्वचिन्मध्यभागे कचिद्वारोभयपक्षकेषु, कचित्कुड्यप्रान्तेषु कचिन स्तम्भादिस्थानेषु एतादृशदीपस्थापनं विहितं भवति । तस्मात्तादृशदीप रात्रनिर्माणद्रव्यं तु त्रिविधमेव । यथा - शिला द्रव्यं, लोहद्रव्यं दारुवण्डेष्टिकादिसङ्कीर्णद्रव्यमिति । तत्र च देवालयनिर्माणेषु प्रायशश्शिलाद्रव्यकल्पितदीपस्थापनं, भूपालभवनेषु लोहकृतदीपस्थापनं, अन्येषां गृहादिषु लोहदार्वादिभिश्रितद्रव्यकल्पितदीपस्थापन शुभप्रदमिति प्राचामाशयः । मतान्तरमत्र न लिख्यते ॥ २ ॥ एवमत्र दैवभूपालमानवभवनेषु शिलालोह सङ्कीर्णद्रव्यवगैः दीपस्थापनं शुभप्रदमिति प्रतिपाद्य प्रायशस्तत्स्थापनस्थलानि च निर्दिश्य तादृशदीपनिर्माणक्रममुदाहरति पञ्चतालेत्यादिना । । ,
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy