________________
५९८
लिङ्गपीठं सौम्यपीठं वृत्तपीठं तथा कचित् । यथावलं यथाशोभं नानाचित्रमनोहरम् । मानज्ञः स्थपतिश्रेष्ठो घट कल्पं प्रकल्पयेत् ॥ १४ ॥
अथ मानवगृहवेदिकालक्षणम् ॥ सर्वेषामपि वर्णानां नानारूपप्रकल्पने । शिलावेदिर्न शुभदा तम्मात्तां वर्जयेद्बुधः ॥ १५ ॥
वेदिकां शुभदां शिल्पी सुधालोहादिनिर्मिताम् । कल्पयद्विविधाकागं स्थलमानादिभेदतः ॥ १६ ॥
त्त क्षेत्रनाथपीठादिकं वा विष्णुमन्दिरे प्रकल्पयेत । एवं शिवमन्दिरे तु लिङ्गपीठं मोमपीठं वा वृत्तपीठं वा कल्पयदित्यागमसंप्रदायक्रमः कथितः ॥ १४ ॥
नायता प्रबन्धन सकलदेवमन्दिरेष्वपि कल्पनीयविविधमूलबेरोत्मिययेर स्थापनार्हनानारूपवेदिकाकल्पनप्रकारलक्षणादिकं संग्रहेण प्रतिपाद्याधुना मानवगृहकल्पनीयवेदिकालक्षण प्रतिपादयति - सर्वेषामित्यादिना । ब्राह्मणक्षत्रियवैश्यशूद्रादिसकलवर्णवासार्थ कल्पनीयेषु विविधेषु गृहादिनिर्माणेषु शिलामयवेदिका न शुभफलप्रदा । देवालयभूपालप्रासादादिष्वेव शिलामयी क्वचिच्छस्तति । तस्मात्सर्वत्र मानवगृहादिषु विविधनिर्माणेषु दारुलोहेष्टिकादिभिरेव वेदिकां स्थापयेदित्युपदेशः ।।