________________
५९९
शालाप्रान्ते चत्वरान्ते गेहद्वारान्तिकस्थले । महाशाला मध्य भागे कूटकल्पनमध्यमे ।। १७ ॥ देहल्य लिन्दभागेषु देवागारस्थलेषु च । भोज्यशालाप्रान्तभागे पचनालयकोणके ॥ १८ ॥
विश्रान्तिस्थानके वापि भौमभागे क्वचित्तथा । हस्तं सार्थैकस्तं वा द्विहस्तं वा त्रिहस्तकम् ॥ १९
-
"
कुत्र वा स्थल मानववदिकयं स्थाप्येत्याकाङ्क्षायां तादृशस्थलानि निर्दिशति — शालाप्रान्त इत्यादिना । ग्रामनगरादिवास्तुन्थलेषु कल्पितविविधमानव भवन निर्माणेषु विश्रान्त्यर्थं विवाहशालामुखत्रान्तेषु, शालान्तरमुखप्रान्तभागेषु, पूर्वोक्ताष्टगृहद्वारसव्यापसव्यभागेषु चत्वरकल्वनस्य मध्यम्थले, कचिचत्वरकोणस्थानेपु, नवरङ्गकूट | दिमध्यभागस्थलेषु, तत्कोणस्थलेषु वा, मानवदेहलीभागेपु, मानवालिन्द भागेषु, देवागारदेहल्याविन्दु भागेषु, मानव भोजनालयसमीपभागेपु, पचनालयकोणभागेषु, विश्रान्तिप्राप्तये कल्पितनिर्माणस्थलेषु समुचितेषु पूर्वभवनादिकोणभाग स्थलेषु द्वितीयतृतीयादिभौमस्थलेष्वपि समुचितेषु कन्दुकखेलनस्थलसमीपेषु स्थलान्तरेष्वपि तादृशवेदिका निर्माणमवश्यं कार्यम् । तत्प्रमाणन्तु कचिदेहस्तप्रमाणमन्यत्र सार्वैकहस्तं कचिद्दिहस्तं, त्रिस्तमित्यादिकं मानं वेदिकासु नेयमिति भावः ||