________________
५९७
प्रणाली क्षुद्रमानां वा स्थपतिस्तत्र योजयेत् ॥ १० ॥ जन्मान्तं मूलविस्तारभागार्धाधिकमानकम् । ममं वा विषमं मानं गेहान्ने योजयेद्बुधः ।। ११ ॥ कल्पयद्विविधं रूपं शैललोहद्रमादिभिः । पूर्वबादिकया युक्तं पूर्व भद्रविभूषितम् ॥ १२ ॥ वर्णमङ्कहीनं तत्प्रशस्तमिति भाषितम् । पापीठं शेषपीठं क्षेत्रपीठमथापि वा ॥ १३ ।।
प्रणाल्यादिकं कुव वा स्थल स्थाप्यनिति च नत्क्रममाह - प्रायशो देवालये तादृशदेवबिम्बाना सव्यभागे गोमुखं, प्रणाली बा भित्तिभागघनमेलनोपेतां कल्पयेदित्यर्थः । कचित्पाद भाग च कार्यमिति च व्यवस्था । किन्चात्रोक्तगोमुखप्रणालीकल्पनक्रमलक्षणादिकं तु काश्यपमयमतादिषु ग्रन्थान्तरेषु ज्ञेयम् । विस्तरभयानात्र लिख्यते ।।
___ एवं गर्भगृहे भित्तिभागे गोमुखादिकल्पने तादृशमर्भगृहजन्मान्तप्रमाणं वा मूलबेरवेदिकाचिस्तारभागादर्धभागप्रमाणोपेतं वा सत्वबेरालये समकल्पनं रुद्रबेरालय विषमकल्पनश्च कार्यमिति तत्क्रमः स हेम विवृतम्सूक्ष्मधीशिल्पिवीयति भावः ।।
किश्चैयरीत्या दृढकल्पनगोमुखसहितगर्भगृहवेदिकां कारयित्वा तदुपरि विष्णुबेरस्थापनार्थपद्मपीठं वा कचिच्छेषपीठं, कचित्त