________________
अथ नानाविधपीठिकावेदिकालक्षणकथनं नाम अष्टपञ्चाशोऽध्यायः ॥
तत्रादौ देवालयवेदिकालक्षणकथनम् ॥
देवप्रीतिकरी वेदिर्वेदिका पीठिका तथा । भुक्तिमुक्तिप्रदा पुंसां देवसान्निध्यकारिणी ॥ १ ॥
शुभ मुहूर्ते भट्टायैर्मिता चाभिमन्त्रिता । तस्मात्तां योजयेच्छिल्पी यथामानं यथाबलम् || २ ॥
|| अष्टपञ्चाशोऽध्यायः ॥ अथास्मिन्नष्टपञ्चाशत्तमेऽध्याये
देवप्रासादगर्भगृहमध्य
स्थापनीयवेदिकादीनां स्थलान्तरकल्पनीयानां पीठिकादीनाञ्च कल्पनक्रममुदाहरति-- देवप्रीतिकरीत्यादिना । पूर्वोक्तदेवालय। गर्भगृहा। शुभमुहूर्ते यथामानं दीक्षितभट्टारकस्थपति प्रमुखैर्वेदिकादिपरिकल्पनेन किं वा फलमिति चेत्तन्मध्यभागप्रतिष्ठापितबासुदेवशङ्करादिदेवतानां प्रीतिर्भवति । तद्वशात्तस्मिन्वेदिकामध्ये तेषां बिम्बादीनां सान्निध्य जायते । तत्सेवाजुषां पुंसां भुक्तिमुक्तयादिश्रेयश्च भवति । तस्मात्स्थपतितक्षकककशकाराद्यस्तादृशवेद्यादीनां प्रकरूपनास पूर्वमेव तत्तद्वेदिकाजात्यनुगुणं तम्मध्ये गर्भत्रिन्यासं प्रकल्पयेयुरित्युपदेशः ॥
कि पूर्वोक्तरीत्या तदेव श्रेयस्करमिति भावः । ताइश -