________________
५९०
विदन्ति ये पुण्यवशात्तत्परीक्षास्थलन्विदम् । पुमर्थसिद्धये राज्ञो विजयाय च मण्डले । कल्पयेन्मतिमान्छिल्पी समनेत्रं समक्रियम् ॥ २२॥
इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे एकशालाद्विशालाबहुशालालक्षणकथनं नाम
पञ्चपञ्चाशषट्पञ्चाशसप्तपञ्चाशाध्यायाः ॥ बहुशालाकल्पनस्य परितो नानास्तम्भधृतमङ्गणकल्पनं प्रकल्पनीयमिति च क्रमः । एवं नानासनस्थापनयोग्यं प्रतिभौम कल्पनं क्रमाद्धीनप्रमाणकं विरचय्यान्तिभोमोपरितले चूलीगृहं वा चूलीहम्यं वा नानाचित्रमञ्जुलाकारं विधाय तदुपरि नवैकादशपञ्चदशककलशस्थापनमपि भूपालप्रकृति श्रेयस इति शास्त्रोपदेशः ।।
किश्च पूर्वोक्तरीत्याऽनापि बहुशालाकल्पने मध्यभागे महाशालाकल्पने नानारूपदेवगन्धर्वयमादिचित्ररचनादिकं योजयित्वा परीक्षार्थमागतानां विदुषां, परीक्षकाणाञ्चासनानि यथाप्रमाणं स्थापनीयानीति सङ्ग्रहेण परीक्षाशालात्र यलक्षणमुक्तं बोध्यम ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां एकशालाद्विशालावहुशालाख्यपरीक्षास्थललक्षणकथनं नाम पञ्चपञ्चाशषट्पश्चाशसप्तपश्चाशाध्यायात्मकाः कुलकरूपाः ॥