________________
महाभामे प्रकर्तव्यं वातायनयात्रोतलम् । पाठकासनसंयुक्तं पक्तिमङ्क्तिकमक्रमम् ॥ १९ ॥ पाठवित्स्थानयुक्तञ्च तन्मध्ये रम्यचित्रकम् । काव्यं देशीय भाषां वा नाटकादीनथापि वा ॥२०॥ मीमांसान्यायविस्तारं वेदं धर्मसमुच्चयम् ।
मणिक्रियां लोहकर्म नानाशिल्पक्रियामपि ॥ २१ ॥ मपि मण्डलाकारमेव विधाय, तद्वशाकल्पनसौकर्य संपादयित्वा पूर्वोक्तशैल्यैव तत्राप्युपरितनभौमतलस्थापनं करणीयमिति शिल्पक्रियाविदः । तस्मात्स्थपतिप्रमुखैः तत्प्रमाणवति स्थले वा तदर्धत्रिभागवति स्थले वा, तस्मात्किश्चिदूनप्रमाणस्थले वा, एतादृशबहुशालानिर्माणकल्पने प्रकल्पितेऽपि अयश्च क्रमोऽवश्यं स्वीकार्यः । यथा - अस्मिन्तु बहुशालाकल्पने मण्डलाकारप्रमाणवति प्रथमतलप्रमाणापेक्षया द्वितीयतले किश्चिदूनप्रमाणयोजनं, तस्मात्प्रमाणात्किञ्चिदूनप्रमाणयोजनं तृतीयभौमतले इत्यादिक्रमोऽवश्यं कल्पनीय इति ॥
अस्य विशदार्थस्तु यथा - प्रथमभौमकल्पने साधारणदण्डाशीतिकप्रमाणं, द्वितीयभौमतलेऽष्टसप्ततिदण्डप्रमाणं, तृतीयभौमतले षट्सप्ततिदण्डप्रमाणं, चतुर्थभौमतले चतुरसप्ततिदण्डप्रमाणकमित्यादिक्रमेण प्रतिपादितं प्रतिभौमं द्विद्विदण्डप्रमाणहीनत्वं योजनीयमित्यर्थः । तथा च पर्वलाकाररथप्रमाणवकल्पितस्य