SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ ५९२ देवभूपालमानुष्य नानावास्तुविभागवित् । चतुरश्रं षड वा तथाष्टाश्रं क्वचिन्मतम् ॥ ३ ॥ द्वादशाश्र षोडशाश्र व्यासहीनं त्रिकोणकम् । चापाकारं क्वचित्कार्यं वर्तुलं मुखपट्टिकम् || ४ || गर्भविन्यासाकरणे देवालयादीनां महादोषप्रसङ्गादिति भावः । अतो लोके देववेदिका, भूपालवेदिका, मानववेदिकेति त्रिधा तद्विभजनं शास्त्रचोदितम् । तस्मात्पूर्वोक्तगर्भविन्यासप्रकरणप्रतिपादितशैल्या विष्णुमन्दिरे शङ्खचक्रादिलक्ष्म, शिवमन्दिरे शूलादिलक्ष्म, भूपालप्रासादादिषु खङ्गादिचिह्नमित्यादिक्रमेण तत्तज्जात्यनुगुणगर्भचिह्नानि ताम्रपट्टा दिलिखितानि, सुवर्णमाणिक्यवैडूर्यादिसहितानि तादृशवेदिकामध्ये स्थापयित्वा सुधेष्टिकाशिष्ठादिभिराच्छाद्य तत्करूपनं दृढं पुश्येदिति लक्षणवाक्यार्थः ॥ " तस्मात्तादृशदेवालयगर्भगृहवेदिका तु वासुदेवनारायणकेशव माधवमत्स्यत्रिविक्रम कूर्मवामननरसिह्मदाशरथि गोविन्दशङ्करगौरीश- नटपति - पशुपति भिक्षाटनादितत्तदेव विम्बतालमानानुगुणं विविधाकारा भवति । यथा - कचिद्गर्भगेहे द्वादशतालमूर्तीनामस्स्थापितवेदिका तु चतुरंश्राकारा स्थापनीया । स्थलान्तरगर्भगृहे तुडश्रा भवतीति । एवंप्रकारेणाष्टाश्रा, द्वादशाश्रका, पोशाकाऽतिदै संयुक्ता, कचित्रिकोणाकारा, कचिच्चापाकारा,
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy