________________
५८७
कारयेन्मानविच्छिल्पी महाशालाप्रकल्पनम् । आदिमध्यान्तभागेषु कल्पनं पूर्ववन्मतम् || १३ ||
द्वारस्थाने पूर्वसद्मस्थाने मध्य प्रकल्पने । सुषिरव्यासमानार्थं पार्श्वकूटप्रकल्पने || १४ ||
इति द्विशालालक्षणकथनम् ॥
अथ बहुशालालक्षणकथनम् ॥
बहुशाला कल्पनं तु मण्डपाकारवन्मतम् ।
किचात्र द्विशालाकल्पने कोऽपि विशेषो ज्ञेयः । यथाद्विशालाकल्पनस्यास्य सव्यापसव्ययोर्भागयोः पार्श्वकूटकल्पनं वा पार्श्वङ्गण कल्पनमतिदैवत्करणीयमिति । कि पूर्वोक्तस्यैकशालाकल्पनस्यास्य च द्विशालाकल्पनस्य प्राथमिकं मुखद्वारं निर्दिष्टस्थाने स्थापयित्वाऽवशिष्टदिग्भागत्रयेऽपि तत्कल्पनप्रमाणचित्रादियुतद्वारत्रयस्थापनं वा किश्चिदूनकल्पनप्रमाणचित्रादिरचनाभासुरं वा द्वारत्रयं प्रयोज्यमिति शास्त्रक्रियाविदामाशयोSप्यादरणीय इति । अत एव खल्वस्य कल्पनस्य परितः प्राकारस्थलविभजनवचनप्रसक्तिरिति । एवं कचिद्वारचतुष्कस्थापनाभावोऽपि न दोषायेति शिल्पसमयः । सर्वथा द्वारद्वयहीनता पूर्वोक्तकल्पनशैलीविहीनता च न कार्येति शास्त्रोपदेशस्सर्वैरपि सर्वत्रादरणीय इति