________________
चतुःपादसमायुक्ता चतुरङ्गणभूषिता ॥ ११ ॥ कुड्यान्ते मध्यभागे च चतुस्सूत्रप्रमाणकम् । मध्यशालाकल्पनं वा मध्य कूटप्रकल्पनम् ॥ १२ ॥
निर्माणक्रममाह -- द्विशालाकल्पनमित्यादिना । 'आदिमध्यान्तभागेषु कल्पनं पूर्ववन्मतम् ' इति वचनाद्रामकल्पनीयाया एकशालायाः यथा भागत्रयविभजनं तदुपरि भीमकल्पनादिकमुक्तं, तथैवात्रापि द्विशालाकल्पने नगरस्थापनीये कार्यमिति क्रमः | अथापि तादृशभागत्रये प्रतिभागं दैर्यवैशाल्यप्रमाणन्तु एकशालाप्रमाणापेक्षया द्विगुणितमित्येव भेदः । भेदान्तराणि च यथा -- अत्र तु द्विशालाकल्प नस्य प्राथमिकद्वारसमीपस्थले चतुरिप्रकल्पनं, चतुःस्तम्भस्थापन, वथैव चतुरङ्गणकल्पनमपि योजनीयमिनि ।।
किश्चात्र द्विशालाकल्पने भागमध्यस्थलकल्पितकुड्यान्तप्रान्तावधिकस्थले समसूत्रप्रमाणं मध्यमहाशालाकल्पनं वा मध्यमहाकूटकल्पन वा स्थापनीयांमत्युपदशः । किश्च पूर्वोक्ते एकशालाकल्पने चात्र द्विशालाकल्पने एवं वैशाल्यमध्यभागस्थापितमध्यशालायामङ्गणस्थल्यामपि पूर्वोक्तनानाशास्त्रविदा परीक्षार्थमागमनशीलानामासनपीठादिकं स्थापयित्वा तन्मध्ये परीक्षाकार्यव्यापूतस्य विद्यागुरोरासनं तुङ्गमपि प्रकल्पनीयमिति भावः । अयश्च क्रमो बहुशालालक्षणेऽपि योज्य इति मतिः ।।