________________
५८२
बहुशाला पश्चिमास्या शतदण्डाधिकस्थला । कौसल मागधीं वापि शौरसेनीमथापि वा ॥ ४ ॥ शैलीमाश्रित्य शिल्पज्ञशाला कल्पनमादिशेत् । समकल्पनसंयुक्तां समालङ्करणक्रियाम् || ५ || उत्तमां मध्यमां वापि कल्पनां वा कनीयसीम् । मानभेदाद्योग्यशालां स्थापयेच्छुभवास्तुनि || ६ ||
शतदण्डाधिक्यप्रमाणवति राजधानीवास्तुभागे पश्चिमास्या वा दक्षिणास्या वा स्थापिता परीक्षाशाला बहुशालेति व्यवह्रियते । एवंप्रकारेण एकशालादिनिर्माणस्थापने कोसलशैली वा मागधशैली वा शूरसेनशैली वा यथाभिरुचिकल्पननिर्माणाय स्थपतिभिः स्वीकार्येति शैली प्रकारकथनक्रमः ||
किता शैली स्वीकरणेऽपि ग्रामनगरराजधान्यादिस्थलस्थापनीयासु तासु शालासु समकल्पनं, समालङ्करणादियोजनमेव शुभप्रदमिति भावः । अस्य विशदार्थस्त्वनुपदमेव स्पष्टीभविष्यति । तस्मादेतदेकशालादिनिर्माणं शुभवास्तुभागे उत्तमप्रमाणोपेतं वा मध्यमप्रमाणोपेतं वा अथवाऽधमप्रमाणयुतं विषमसूत्रादिविहीनं स्थापनीयमित्यर्थः ॥
-
किं नाम उत्तममध्यमाधमलक्षणमिति चेदुच्यते — अत्रोक्तदण्डपञ्चाशत्क दण्डशतकादिकन्तु
मध्यभाग
तस्याश्शालाया