________________
ग्राम्यशाला पूर्वमुख। पञ्चाशदण्डमानका । मण्डलम्थोत्तर मुंग्या शतदण्डप्रमाणका !॥ ३
नेपुण्यपरीक्षार्थ कल्पनीयं भवनोत्तममिदं एकशालादि मङ्केतनाम भजतीति लक्षण वाक्यार्थः ॥
एवम नकविधविद्याभ्य मनशीलान परीक्ष्य तेषां नै ण्यानु. गुणं भूपाल प्रमुबैरस्मिन्नव बल्ये कशालादिकल्पने पारितोषादिक देयमिति भावः । तस्मादेतद्विद्यापरीक्षास्थानं त्रिविधं भवति । यथा-एकशाला,द्विशाला,बहुशालेति । तत्र देशेषु ग्रामशतनिर्माणानां मध्ये विद्यापरीक्षार्थ स्थापितं स्थानभेकशाला । कस्यचिन्मण्डलस्य मुख्यनगरे विद्यापरीक्षार्थ स्थापितं स्थानं द्विशालाख्यं, राजधान्यां विद्यापरीक्षार्थ स्थापितं स्थानं तु बहुशा लेत्येवं सतनाम प्राप्नोतीति शिल्पसमयनिष्कृष्टार्थः। एवं त्रिविधनिर्माणप्रकारं विद्यास्थानं चक्रवर्त्यादिमहीपालैः स्वस्वदेशेषु, सामन्तभूपालदेशेष्वपि तत्र तत्र जनसौकर्यार्थ अनकसंख्यं प्रकल्पनीयमित्युपदेशः ॥ २ ॥
किश्चैतादृशशालात्रयकल्पनानां किं वा लक्षणमित्याकाङ्कगयां तद्विवृणोति -ग्राम्यशाला पूर्वमुखेत्यादिना । साधारणदण्डपश्चाशदायामदैर्ध्यवति भूतले ग्राम्यशालाख्यामेकशाला पूर्वदिङ्मुखां स्थापयेत । शतदण्डप्रमाणभासुरे नगरवास्तुतले उत्तरदिङ्मुखस्थापिता परीक्षाशाला द्विशालेति नाम्ना प्रसिद्धं भवति । एवं