________________
५८३
भीमद्वयं पूर्वभागे दशदण्डस्थले मतम् ।
कल्पना यमुख्यकल्पनस्थलप्रमाणमिनि विवकः! तादृशमध्यभागस्थलमुख्यकल्पनस्य पार्श्वतः प्राकारवत्केवलप्रान्त भूमिरवश्यं कल्पनीया। तत्प्रमाणवत्येव प्रान्त भूमियत्र स्थाप्यते, स्थानम्य तस्योत्तमकल्पनमिनि नामेति भावः । तादृशप्रमाणहीनप्रान्तभूमिपरिवृतशालाकल्पनन्तु मध्यम कल्पनम् । प्रान्तभूमि विनैव कल्पितं परीक्षार्थ कल्पनमधमकल्पनामिति तत्तत्स्थलानुगुणं कल्पनीयप्राकारभूमिस्थलविकल्पयोतकं लक्षणवाक्यमिति ज्ञेयम् ।
__ तस्मादेवं तत्र तत्र ग्रामनगरादि स्थलवशाद्यथासौकर्य संप्राप्तवास्तुभूमौ प्राकारभूम्याख्यप्रान्तभूमियुतं वा तद्विहीनं वा यथाप्रमाणं कल्पनीयमिति भावः । परन्तु मध्यकल्पनस्थलनिर्माणार्थ मत्र यन्मानं पञ्चाशदण्डादिकमित्युक्तं तन्मानमवश्यं तत्र कल्पने योजनीयमेव । न तन्यूनतति भावः। किञ्च सति स्थलविभवे प्राकार भूमिः कल्पनीया । नो चेत्प्राकारभूभागं विनैवात्र शास्त्रोक्तप्रमाणमेकशालादिमुख्य कल्पनभागे योजनीयमेवेति पिण्डितार्थः ॥
तत्राधायाः प्रामे स्थापनीयायाः एकशालायाः निर्माणक्रममुपदिशति --- भीमद्वयं पूर्वभाग इत्यादिना । किकशालाकल्पननिर्माणार्थ वास्तुभूमौ दशदण्डप्रमाणं पूर्व स्थळं,