________________
५७९
नातिदीर्घान्तरतलं नातिनीचमपि क्वचित् । स्थपतिः कल्पयेद्युक्त्या सोपानं मुख भद्रभाक ॥ ११ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे सर्वविधसोपानलक्षणकथनं नाम
चतुःपञ्चाशोऽध्यायः अर्वाचीनानां शिल्पविदामाला यश्च ज्ञेयः। एवं सर्वविध सोपानकल्पनं तत्तत्स्थानकल्पनीयनिर्माणानुगुणं नातिदीर्घाकारं नातिनी चाकारश्च बहुचित्रादिमनोहरं यथाशोभं यथाबलञ्च स्थापयेदित्युपदेशः ॥
एवं सर्वविधोपाननिर्माणक्रमं सङ्ग्रहेण शास्त्रकार उपदिदेश । मतान्तरशैल्या कल्पनान्तरलक्षणान्तराणि तु क्रियाकुशलैस्तक्षकप्रमुखैश्शिल्पिभिः स्वयमेवोह्य कार्यमिति भावः ॥
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां सर्वविधसोपानलक्षणकथनं नाम
चतुःपञ्चाशोऽध्यायः॥