________________
५७८
पादशाटीयुतं प्रायो नात्युन्नततलक्रियम् । समं तिर्यक्कृतं वक्रं वर्तुलाकारवत्कचित् ॥ १० ॥ भौमस्थानवशाने सोपानं मध्यदण्डभाकू 1
टङ्कवेशनादिना श्लक्ष्णता संपादनीया । एवं शिलामयसुधेष्टिकामयेष्वपि सोपान कल्पनेषु मध्यरेखाकल्पनमपीति भावः । किमात्र सोपाननिर्माणे प्रासादादिस्थानेषु भूपालादिपादन्यसनाई पदशाटीप्रसारणं कृत्वा अत्युन्नतकल्पनहीनं क्वचिन्नी चकल्पनविहीनमपि स्थापनीयम् ||
८
किचात्र कोऽपि रचनाक्रमो ज्ञेयः । यथा-- कचिदत्युन्नत भीमादिस्थलप्राप्त्यर्थं सोपानानां विंशतिकमथवा क्वचित्रिंशत्कं समसूत्रमृज्वाकार कल्पनीयम् । अयमेकः प्रकारः । प्रकारान्तरन्तु पूर्वोक्तरीत्या सोपानानां कल्पनं किश्चिद्दरमृज्याकारं कल्पयित्वा तदनु सत्र्यभांगे वा वामभागे वा तिर्यक्कृतं किशिद्दूरं प्रकल्प्यतां स्थलस्थित्यनुगुणम् । अथवा तस्मात्स्थलात्पुनरपि तत्रत्यभूमिकल्पनानुगुणं ऋज्वाकारं वा पुनरपि तिर्यक्कृतं वा कार्यमिति प्रकारान्तरन्तु प्रथमतलाख्य भूमितलप्रभृति द्वितीयतृतीयादिभौनिकस्थलारोहणार्थं कचित्कल्पनेषु कूपाकार मध्यकरूपनदण्डं विधाय सर्पवेष्टनवत्क्रमादुपर्युपरि सोपानस्थानं स्थापयेदिति ॥
1
किञ्च कचिद्धाम्यशालाचन्द्रशाहोपरि मौमाद्यारोहणार्थ रुकृत जङ्गम सोपानस्थापनमपि निःश्रेणिकाकारवत्कलनीयमिति