________________
५७७
द्वारोपद्वारयुक्तं वा मध्यविश्रान्तिकस्थलम् । सोपानकल्पनं प्रायः यथामानं यथावलम् ।। ७ ।। मध्य वा पार्श्वयोः प्रायः पद्मचित्रादिकल्पनम् । दीपाट्टालकयुक्तं वा वितानादिविभूपितम् ।। ८ ।। करलम्बसमोपेतं लोहपट्टावृतं क्वचित् ।
श्लक्ष्णितं टवेशेन क्वचिद्वादिभूषितम् ॥ ९ ॥ तत्र तत्र प्राकारभित्तिपुरद्वारदुर्गद्वारगोपुरतलामादौमादिस्थलेषु तत्तत्स्थलोनत्यानुगुणं कल्पनीय सोपाना नामारम्भाख्यमुखभागे, कचिन्मध्यभागे, अन्त्यभागे च दारूखण्डकृतद्वारोपद्वारस्थ पनभासुरं पार्श्वभागेपु पतनभयनिरासाय करलंबनदारुपट्टिकाएं बलादिसहितं दश सोपानतरणानन्तरं मध्य मध्यभागे विश्रान्ति स्थलं द्विहस्तायतिकं तन्मयमेव कृत्वा, प्रायशस्तवत्यस्थलानुगुणं, दीपप्रभापतनयोग्यं दीपस्थलमट्टाल कस्थलञ्च पार्श्वभागेपूरि वा तले प्रकल्पयित्वा तादृशसोपानानां मध्यभागे वा कचिदुभयोरपि पक्षयोः पद्मकुमुदहंम शुक सारिकादिचित्रतक्षण सम्मेलनं प्रकल्पनीयम् ॥
किम्बात्र सोपानकल्पने उपरिभागे वितानाद्यलकरणानि च कल्पयित्वा सति वित्तादिविभवे सौवर्णराज तताम्रलोहादिपट्टिकाच्छादितं कारयित्वा दृढसन्धिबन्धनं कचिन्मिथस्संप्राप्तायःकीलश्च स्थापनीयमित्युपदेशः ।।
अपि चाव सोपाननिर्माणे दारुकृते द्रव्यान्तरकल्पिते पा S.S. 73