________________
५६१
द्विद्विनासाकवाटाढ्यं तिर्यक्पक्षकशालकम् । तिर्यक्कूटयुतं वापि कल्पयेच्छिल्पवित्तमः ॥ ८
गृहेषु प्राथमिकद्वारललाटभागे कचित्सर्वद्वारनेत्रभागेषु चित्ररूपं वा तक्षणरूपं वा बिम्ब संयोजनरूपं वा कारयदिति व्यवस्था ज्ञेया । एवमग्रेऽपि । लक्षणान्तरञ्च तेषाञ्चातुर्वण्र्यक्रमाणामुक्त पूर्वमेवेति ॥
किन विशेषतो ब्राह्मणगृहेषु सर्वेषु तिर्यक्पक्षशालातिथक्कूट शालादिक स्थापनीयम् 1 एतत्कल्पन नंव विहितं क्षत्रियवैश्यादिगृइष्विति भावः । तिर्यक्पक्षशाला कल्पनं नाम, कस्मिंश्चिद्राह्मणगृहे मध्यचत्वरस्थानसमीपे उभयोरपि पार्श्वयोदि दक्षिणोत्तरमुखशाला कल्पनं कृतं तयोश्शालयोरा द्यप्रान्तस्थले पाश्चात्यप्रान्तस्थले च वासववारुणदिङ्मुखशालान्तरकल्पनमपि कार्यम् 1 तस्यैव वासववारुगदि : ङ्मुखशालान्तरकल्पनस्य तिर्य
क्छालेति नाम बदन्ति शिल्पविदः ||
कियानेनैव प्रकारेण चत्वरसमीपकृतकूटस्य यत्कल्पनं तिर्यग्भूतं तस्य तिर्यक्कूट कल्पनमिति नामान्तरम् । एतत्तिर्यस्कूटकल्पनं पूर्वोक्ततिर्यक्छाल कल्पनमपि ब्राह्मणगृहभवननिकेतनादिष्वेव योज्यम् । नान्यत्र क्षत्रियवैश्यशूद्र' दिगृहेष्विति समयः । तेषां गृहे तादृशतिर्यक्छालाकल्पनस्थाने महाङ्गणक्षुद्राङ्गणशाल । दिकरूपनमेष तेषां शुभाय भवतीति प्रसिद्धिः ।
8. 8. 71