________________
५६०
सार्धदण्डं दण्डयुगं सार्धदण्डद्वयं तथा । दण्डत्रयप्रमाणं वा तच्च गेहं प्रकल्पयेत् ॥ ६ ॥
ब्राह्मचिह्नेन संयुक्तं तद्द्वारं शुभदं मतम् । समसूत्रप्रमाणेन सर्वकल्पनमीरितम् ॥ ७ ॥
•
संयोजनीय इति शिल्पकार्यविद्भ्य उपदेशशास्त्रीयः ॥
किचात्र ब्राह्मणसौध निर्माण प्रथमालिन्दभागे द्वितीयालिन्दभागे विवाहशालासमीपस्थले भोजनशाला पचनालयादिसमीपे स्थलान्तरे च कल्पनीयानां नानाविधद्रव्यस्थापनार्हाणां क्षुद्रगृहाणामायामदैर्घ्यादिकं कियद्वेति चेत्, उच्यते - सार्थदण्डप्रमाणं वा क्वचिद्दण्डद्वयप्रमाणं वा सार्घदण्डद्वयप्रमाणमथवा स्थलादिविभवे दण्डत्रयप्रमाणं वा यथाक्रमं नातिविशालं नातिदीर्घं परस्परद्वारमुख समसूत्रप्रसारं क्षुद्रगृहनिर्माणं निर्मापयेदिति पिण्डितार्थः । एवं क्षुद्रगृहेपूक्तं प्रमाणन्तु सर्वत्र प्रामनगरादौ कल्पनीयनानाजातिजनालयेषु प्रायशः संयोजनीयमिति
भावः ।। ६ ।।
एवोक्तब्राह्मणगृह्कल्पनस्य
>
किंवा मुख्य लक्ष्मेति वेत्तद्विशदयति - ब्राह्मचिह्नेति । पूर्वोक्तषष्ठाध्याये गर्भविन्यास - लक्षणकथनप्रकरणे ब्राह्मणक्षत्रियवैश्यशूद्रादीनां गर्भविन्यासार्थं पद्यलक्ष्म करणीयमिति प्रतिपादितं तदेव लक्ष्म सर्वत्र तेषां तेषां
"