SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ ५५९ नानाभौमान्वितं वाऽपि तन्मानश्च कचिनयेत् ॥४॥ तदर्ध वा तदधं वा मुखभद्रादिसंयुतम् । नानागृहसमायुक्तं मध्यचत्वरकल्पनम् ॥ ५ ॥ अष्टाधिकस्तम्भसमेतायाः विवाहशालायाः मुखभागोऽपि प्राङ्मुख एव तेषां शुभप्रद इति भावः ॥ किश्चात्र ब्राह्मणगृहभवननिकेतनादौ ग्रामनगरादौ कल्पनीये भौमनिर्माणमपि कचित्कार्यमेव । तदेयं व्यवस्था । यथा-प्रथमभौमाख्य भूतल भौमनिर्माणाय यावत्प्रमाणभूमिः स्वीकृता तावत्प्रमाणवत्येव स्थले उपरिभागे भौमद्वयभौमत्रयादिस्थापनं विहितम् । अथवा वित्तस्थलविभवाद्यभावे प्रथमतलाख्यभूतलकल्पनप्रमाणादर्धप्रमाणवन्तं वा भागं, तदर्धप्रमाणवन्तं वा भागमुपरिभौमतल कल्पनायं स्वीकुर्यादिति विकल्पः । एवं ब्राह्मण गृहेषु भौमकल्पने प्रतिभौम मुखभद्राख्यरचना संयोजनीया ॥ किश्चात्र ब्राह्मणसौधनिर्माणे प्रथमतले महाचत्वरकल्पनं वा मध्यचत्वरकल्पनं, क्षुद्रचत्वरकल्पनं घा, जपवेदिकादि. स्थलसहितं स्थलानुगुणं स्थापयित्वा, तादृशाद्यभौमकल्पनानुगुणमेवोपरिभौमकल्पने स्थलभागं विभग्य तच्छुद्धमिश्ररूपं दृढकल्पनं नानागेहं कार्यम् । अयन्तु प्रकार: सर्वस भौमकल्पनेषु
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy