________________
५५८.
चतुर्दण्डं व्यासकन्तु तत्त्रिभागेन दैर्घ्यकम् । कचित्तदधिकं वाऽपि नेयमत्र शुभे गृहे ॥ २ ॥ अलिन्दद्वययुक्तं वा चतुश्शालान्वितं तु वा । विशेषकल्पनं ब्रह्मभागे मङ्गलदायकम् ॥ ३ ॥
प्राङ्मुखा शुभशालाऽत्र कल्पनेऽनेकपाका |
कचिद्राजधान्यां नगरे नगरोत्तमे वा कल्पितराजवीथी मुखवीध्यादिस्थित्यनुगुणं समसूत्रं प्रागाननमुद्गाननं पश्चिमाननमथवा दक्षिणाननं प्राथमिकद्वारकल्पनन तेषां श्रेयःप्रदमेवेति नगरवास्तुविशेषलक्षणार्थी बोध्यः । परन्तु दिक्कोण चतुष्काद्युन्मुखं द्वारकल्पनं सर्वथा सर्वत्र न कार्यमिति समयः ' तस्याः दोषावहत्वादिति भावः ॥
एवं ब्राह्मणगृहप्राथमिकद्वारस्थापनस्थलमभिधाय तहस्य देय वैशाल्यादिक्रममाद - चतुर्दण्डं व्यासकं त्वित्यादिना । सर्वत्र ब्राह्मणगृहे, साधारणदण्डचतुष्कायतिः कार्या । तत्त्रिगुणितं वा, कचिचतुर्गुणितं वा गृहकल्पदैर्घ्यमानश्च कचित्स्थले तदधिकदैर्घ्यमानश्च योज्यम् । इदमेवोत्तम गृहलक्षणमिति भावः || २ ||
1
किनाल ब्राह्मणगृहकल्पने अलिन्दद्वयकल्पनं चतुरशालास्थापनं, ब्रह्मभाग एव विवाहशालादिविशेषशालासहितं कल्पनं करणीयमिति लक्षणवाक्यार्थः । किवा ब्राह्मणगृहे कल्पनीयाया