________________
अथ विशेषतो विप्रादिचातुर्वर्ण्यगृहलक्षणकथनं नाम
द्विपश्चाशोऽध्यायः ॥ तत्रादौ ब्राह्मणगृहलक्षणकथनम् - ब्राह्मणानां पूर्वमुखं गेहं शस्तं प्रकीर्तितम् ।
राजधान्याञ्च नगरे शुभदं सर्वदिङ्मुखम् ॥ १ ॥ सर्वत्र शिलिलभिविषमकल्पनविहीनं यथाशोभं यथावलं सर्वमपि कल्पनजालं प्रकल्पनीयमिति भावः ।।
किञ्च तत्र तत्रान्तरालिककल्पनभित्तितदन्तस्थलतत्पुरमस्थलप्रमाणनिर्माणक्रमादिस्तु स्वयमेव शिल्पिभिरूह्य नेय इति सङ्केपतो ब्राह्मणादीनां ग्रामगृहनिर्माणप्रमाणादिक्रमः प्रतिपादितो ज्ञेयः ॥ इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां ग्रामगृहनिर्माणक्रमकथनं नाम
एकपश्चाशोऽध्यायः ॥
॥ द्विपञ्चाशोऽध्यायः ॥ अथास्मिन्द्विपञ्चाशाध्याये विशेषतो ब्राह्मणादिचातुर्वण्र्यगृहलक्षणं विशदयति-ब्राह्मणानामित्यादिना । क्षुद्रग्रामेषु वा महाग्रामेषु वा ब्राह्मणानां गृहभवननिकेतनादिकं प्रामुख. द्वारोपेतमेव स्थापनीयम् । इदमेव तेषां शुभावहम् ।