________________
५४४
भोज्यशय्यानानशालाः पूर्वाग्नेयोत्तरस्थिताः । युक्त्यान्यकल्पनं धीमानस्थापयेच्छिल्पयोग्यकम् ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे मच्यादिभव नलक्षणकथनं नाम
॥ पञ्चाशोऽध्यायः॥
कल्पनेन सहितमथवा वियुक्तं नानालङ्कारमनोदरं प्रकल्पनीय. मित्यर्थः । किश्चात्र युवराजभवनमध्यकल्पने प्रमाणज्ञश्शिल्पी वासबदिग्भागे भोजनस्थानमाग्नेयदिग्भागे स्नानशालामुत्तरदिग्भागे शयनम्थानञ्च यथाप्रमाणं सुखवर्धकं प्रकल्पयेदिति क्रमः ।।
किचास्य युव भूपालस्य विविधेषु समयेषु सौख्यवृद्धिकराणां नानाद्रव्याणां स्थापनाहमहासदनक्षुद्रसदनादिनिर्माणक्रम तु स्वयमेवोह्य शिल्पी तत्तत्कल्पनानुगुणं निश्चित्य विषममानविषम दृष्टयादिरहितं प्रकल्पदिति संक्षेपतो युवराजभवनलक्षणवाक्यार्थः कथितो बोध्यः ॥
इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां
विश्वकर्मवास्तुशास्त्रव्याख्यायां मन्त्रिसनेशयुवराजभवनलक्षणकथनं नाम
॥ पञ्चाशोऽध्यायः॥