________________
५४३
नानासदनकोपेतमन्तःस्थलमुदीरितम् । एकावरणकं वापि कचिदावरणद्वयम् ॥ १५ ॥ कल्पयन्मतिमाञ्छिल्पी क्वचिदावरगत्रयम् । पृथक्कल्पनयुक्तं वा तद्युतं वा विहारकम् ॥ १६॥
स्थलमस्य प्रकर्तव्यं नानालङ्कार भासुरम् । देशीयाचरणमपि युक्तं पश्यन्ति शिल्लविदः । तस्मात्तादृशमङ्गलामनस्थानम्य पूर्वोक्तविजयासनस्थानम्य च पार्श्वयोरुभयोश्वन्दनादि सारदारुकल्पितपट्टिकामार्गः परिकल्पनीयः ॥
किञ्चास्य कल्पनस्य मुखभागे नानालङ्कारमण्डिताङ्गं मुख. भद्रख्यं कल्पनमपि संयोजनीयम् । अपि चात्र युवराजभवनस्य पूर्वभागाथापितपूर्वभवन कल्पने ग्राम नगरादिषु स्थितानां प्रकृतीनां वाञ्छापूरणार्थ कञ्चन कल्पनान्तरञ्च कृत्वा तत्र चोत्तुङ्गस्थाने युवराजस्य तस्य कचित्प्राड्विवाकासनं वा पार्श्वयोः पुरतश्च कचिन्यायविदां पौराणामासनानि च स्थापनीयानीति च क्रमः ।।
किश्चैतादृशलक्षणान्वितं पूर्वभवनं प्रथमावरणस्थाने वा द्वितीयावरणस्थाने वा कचित्ततीयावरणस्थानेऽथवा प्राथमिक द्वारसमीपे प्रकल्पनीयमिति शास्त्रकारविकल्पवचनमपि शिल्पकार्यझै. रवधार्यमिति भावः । किञ्चान युवराजभवनकरूपने तस्य युवराजस्य निग्वैस्सलपनकन्दुक क्रीडाद्यहं स्थलन्तु मध्यभाग.