________________
५४२
मङ्गलासनसंयुक्तं पूर्वमण्टपकल्पनम् । पट्टिकामार्गसंयुक्तं मुखभद्रं प्रकल्पयेत् ॥ १३ ॥
पुरकार्यालयोपेतं न्यायवित्पीठिकान्वितम् । अमात्यासनयुक्तञ्च कल्पनं पूर्वभागके ॥ १४ ॥
स्तम्भस्थापनाङ्गणकल्पनादिक्रियाजालं
सर्वमपि तुख्यमेवेति
बोध्यम ॥
किश्वास्य युवराजभवनस्य प्राथमिकद्वारस्य पुरोभागे कल्पनीय पूर्वभवनकल्पने कोऽपि विशेषो यथा अस्मिन्नेत्र विश्वकर्मवास्तुशास्त्रे षोडशाध्याये सिद्धासनप्रकरणे व्याख्यातपूर्ववचनरीत्या युवराजस्य विजयासनस्थानं कल्पनीयं खलु ; तल्लक्षणान्वितमासनमत्र पूर्वभवने स्थापयित्वा ततः पश्चात्किचि
"
दन्तर्भागे तत्कल्पनमिलितं वा पृथग्वा चतुरश्राकारं कश्चन मण्डप - निर्माणं विरचय्य तन्मध्ये अमात्यपुत्रादीनां सवयसां तस्य च युवराजस्य मङ्गलासनं कल्पनीयमिति । अस्मिन्नेव किल मङ्गलासने निषण्णास्ते भूपालमन्त्रिकुमाराः मिथसल्लपनं कुर्यरिति भावः । तदर्थमेवेदं कल्पनान्तरमिति शिल्पविदः ||
-
-
केषुचिद्देशेष्त्रेवमाचरणम् । परन्तु देशान्तरेषु युवराजकुमारस्य सचिवकुमारादिभिस्समुचितेषु समयेषु द्वितीयतृतीयादिभौमतलेष्वेव वा सल्लपनादिकमिति । अस्मिंस्तु विषये ऐच्छिक