________________
५४१
नानाङ्गणसमायुक्तं चूलीहर्म्यविराजितम् ॥ ११ ॥ पार्श्वशालामध्यशाला पुरशालासमन्वितम् । मध्यचत्वरसंयुक्तं नवरङ्गादिभिर्युतम् ।। १२ ।।
सुधांष्टकादिभिः मनाहरकलशावलिप्रमुख कल्पनाविशेषं विरचय्य तत्कल्पनोपरिभागे समुचितप्रदेशे चूलीहर्म्यारित्र्य क्षुद्रप्रमाणचन्द्रशालानिर्माणमपि अवश्यं कार्यमित्यर्थः ॥
किवात्र युवराजभवनकल्पने नान' वातायनादिमनोहरे नानाङ्गण निर्माणभासुराः बहिश्शालाः मानज्ञः स्थापयेत् | कुत्र वा स्थले ? कल्पनस्यास्य मध्यभागम्यलं परितश्चतुर्ष्वपि वा दिग्भागेषु, भागत्रये, पूर्वभाग व वा महती शाला नानास्तम्भमेदुरितावकाशा अन्तरसदन सहिता स्थापनीयेति शिल्पक्रियाविमाशयः । कचित्कल्पने मध्यभागस्थलेऽपि नितरां महती शाला सम्तम्भा, समुषिरा वा स्थापनीया । तदा मध्यशाला पार्श्वशाला पुरशालेति नाम ज्ञेयमिति समयः ॥
किञ्च पूर्वोक्तरीत्या सचिव सेनानायक भवनलक्षणप्रकरणोक्तरीत्या मध्यकल्पनस्य मध्यस्थाने चत्वरस्थापनं वा नवरङ्गमण्डप - निर्माणं वा प्रकल्पयेदित्यैच्छिको विकल्पः तथाऽप्यत्र युवराजभवनकल्पने शालाचतुष्कमेव कार्यम् । तत्र तु सचिव सेनानायकभवननिर्माणे तु शालाष्टक योजनमिति विवेकः किञ्च गवाश्वस्थापन