________________
५४
मध्यकल्पनमानन्तु नेयमत्र विशारदैः ॥ ९ ॥ पूर्वद्वारसमायुक्तं पूर्ववैदिकया युतम् । नवभौमं सप्तभौममथवा पञ्चभूमिकाम् ॥ १० ॥
शिखरत्रयसंयुक्तं भिरयन्तकलशान्वितम् ।
सदाह - शतदण्डप्रमाणं वेत्यादिना । साधारणदण्डानां शतं वा पाशा मध्यकरूपननिर्माणार्थं स्वीकृत्य पूर्ववेदिकाद्वय सहित बासवदिङ्मुखं प्राथमिकद्वारा स्थापयित्वा तादृशप्राथमिकद्वारसमीपस्थलस्योपरिभागे वा पुरकार्यविचारणार्थं कल्पनीयस्यास्थानशाला कल्पनस्योपरिभागे वा मध्यशाला कल्पनस्योपरिभागे वा शिखरत्रयभासुरं वा नानाभौम समसूत्र परिमाणमानित परिकल्पनं स्थापनीयमिति लक्षणवाक्यार्थः ॥
यावत्संख्याकमुपरिभौमकल्पनं
अपि चाम्य युवराजभवन कल्पनस्य भौम संख्याव्यवस्था तु चक्रवर्त्यादिभूपालप्रासादेषु तावत्संख्याक मेवात्रेति । कुत: ? युवराजस्य महाराजस्य राज्यधूर्वहण महिमादिविषये तौल्यादिति । एवं समभौमसंख्या परिकल्पनेऽपि भूवप्रासाद वैशाल्यादिप्रमाणादर्थं तदर्धकमेव वा मानमत्र प्रयोज्यमिति शिल्पसमयः ||
च
तस्मादत्र युवराजभवननिर्माणे नवभौमयुते वा सप्तभौमयुतो वा पञ्चभौभयुते वा प्रकृतेऽपि तत्र तत्र भित्यन्तभागेषु