________________
५३९
प्राकारत्रययुक्तं वा क्षुद्रगोपुरभासुरम् ॥ ८॥ शतदण्डप्रमाणं वा पश्चाशदण्डकं तु वा ।
कचित्तस्य प्रासादस्य बहिःस्थले मुखराजवीथ्यारम्भस्थले तावराजभवनं स्थाप्यमिति स्थलविकल्पः । आशैशव मन्तःपुरादिस्थलेषु नृपपुत्रस्य वर्धनखेलनपठनादिकार्यसंभवेऽपि समुचितवयास सुमुहूते मन्त्रिपुरोहितपुरोगमैः पौरमण्डलभूपालेन च यदि कश्चिद्राजकुमारो युवराज्यसिमासनपदेऽभिषिक्तस्तदारभ्य तस्य युवराजस्थ पृथगेव भवनकल्पनस्य श्रेयस्करत्वादस्य युवराजभवनकल्पनाय निर्माणलक्षणप्रसक्तिरत्र युज्यत इति शिल्पसमयः॥
तस्मादस्य युवराजम्य भवनहादिकं पूर्वोक्तशैल्या नृपप्रासादवाम्तुभागम्यान्तस्थले ऐशान्यामाग्नेय्यां वा दिशि यदि पृथक्कृतम , तदा तद्भवनं परितः क्षुद्रप्राकारभित्तीनां त्रयमथवा कचिहयं स्थापयित्वा, तस्य हर्म्यम्य प्रवेशद्वारं प्रागाननं पश्चिमाननं वा प्रकल्प्य तस्य द्वारस्थलम्यो भागे क्षुद्रगोपुरश्च निर्मापयित्वा तदनन्तरस्थले प्रथमावरणद्वितीयावरणादिस्थले तत्सेवकवाहनादिस्थानं विहारादिस्थानञ्च कचित्परम्पराविरुद्धसूत्रं निर्मापयेत् । तस्य कल्पनस्य प्राकारावरणकल्पनमिति नाम च बोध्यम् ॥
किश्चात्र युवराजभवने मध्यकल्पनस्य कियद्वा प्रमाणमिति