________________
५३८
महाचत्वरयुक्तं वा महाङ्गणसमावृतम् || ६ ||
सामन्तानां क्षत्रियाणामुत्तमासनयोग्यकम् । कारयेन्मतिमान् शिल्पी हर्म्यकं शिखरोज्ज्वलम् ॥
अथ युवराजभवनलक्षणकथनम्
युवराजस्य भवनमन्त बहिरेव वा ।
---
महाशालाचतुष्कं प्रकल्पयेत् ॥
अथवा पूर्वोक्तमध्यस्थाने चत्वरस्थलं चन्द्रिकातपादिपतनयोग्यं निरावरणं प्रकल्पयित्वा तत्स्थलं परितश्व तुझ्शालाकल्पन मथाऽष्टशाला कल्पनं कचिदतिदीर्घमहाङ्गणं वा तत्कल्पनान्तः प्रवेशयित्वा सावरणं कल्पनान्तरमपि तदन्तविधाय तत्र भागेषु समुचितेषु शयनासनभोज्यासनस्थानादीनि स्वेच्छाधीनं सममानशिखरकल्पनानि प्रकल्पयेदिति लक्षणवाक्यार्थः ||
,
किचात्र सचिव सेनानायकहर्म्यकल्पनस्य पूर्वभागे राज्यकार्यनिर्वहणाइये समुचितेषु समयेषु आगमनशीलानां सामन्तभूपालादीनामामनसहितं तत्कर्यावहं मञ्जुलाकारं कल्पनमेकं पृथगेव कल्पनीयमिति सङ्ग्रहेण सचित्र सेनापतिहर्म्यलक्षणं प्रतिपाद्याधुना युवराजभवननिर्माणक्रमं युक्तमिति तत्स्थलं निर्दिशति - अन्तर्वेत्यादिना । चक्रवर्तिभूपालादिक्षत्रियाणां प्रासादुत्रास्तुभागस्यान्तरेत्र प्रायशो युवराजभवननिर्माणं कार्यम् ।