________________
अथ ग्रामगृहनिर्माणक्रमकथनं नाम
एकपश्चाशोऽध्यायः ॥
ग्रामास्तु विविधाः ख्याता देशस्थलविभागतः। शुद्धेश्च मिश्रितैरन्यैः कल्पनैर्मिनमानकैः ॥१॥ तम्मात्तद्गृहनिर्माण विविधं परिकीर्तितम् । मानज्ञश्च क्रियावदी तक्षको लोकवान्धवः ॥ २ ॥ गृहादीन्स्थापये दोषहीनान्मङ्गलमिद्धये ।
॥ एकपञ्चाशोऽध्यायः ॥ अथास्मिन्नेकपञ्चाशेऽध्याये ग्रामेषु विविधेषु विविधब्राह्मणक्षत्रियवैश्यादीनां सर्वेषां साधारण गृहवेइमानिकेतनादीनां मानस्थापना विक्रम विशद यति- ग्रामास्तु विविधा इत्यादिना । इह खलु भारतखण्डाख्यभूभागे गङ्गानद्यादिप्रवाहावाप्तसार वङ्गाङ्गपाञ्चालकोमलादिदेशभेदेन जाङ्गलानूपादिस्थलभेदेन शुद्धद्रव्यकल्पनमिश्रद्रव्यकल्पनादिना, नानाप्रमाणपरिकल्पनेन च सर्वे ग्रामाः परस्परं वैलक्षण्यभासुराः विविधाकाराश्च भवन्तीति शास्त्रकारवचनप्रतीतिबलात्तेषु कल्पनीयगृहादिनिर्माणप्रकारश्न पूर्वोक्तभेदवशाहिविध एव भवतीति भावः । तस्मात्तत्तत्स्थ लानुगुणकल्पनप्रमाणनयनक्रम ज्ञः तदनुगुणक्रियायोजनक्रमज्ञश्च शिल्पी क्रियाकारिषु दयादाक्षिण्य सान्त्ववचनादीन्प्रदर्य तद्वारा
8.S. 68