________________
५२९
द्वारोत्सेधसमं श्रेष्ठं चतुरंशविहीनकम् ॥ ११ ॥
मध्यमे द्वित्रिभागे च कन्य संवृषभोदयम् । (2) गर्भार्धकस्य तद्द्वारव्यासमल प्रकीर्तितम् ॥ १२
ब्रह्मस्थानं कथिनम् । तत्रस्थं द्वारं ब्रह्मद्वारमिति । तादृशद्वारेणैव नदादीनां रङ्गवेदिका तलादन्तःप्रवेशनिर्गमनादिकमिति भावः । किश्चैतादृशत्रह्मद्वारस्य पुरोभागे एवं रङ्गवेदी कल्पनीया | तस्यामेव वेथां नदीनटाइयो भूमिकाधारिणोऽभिनयादीन् प्रदर्शयेयुरिति क्रमः ||
किन पूर्वोक्तत्रह्मद्वारस्य किं वा प्रमाणमिति चेत्तदाह - द्वारोत्सेधसममित्यादिना । नेत्रद्वाराख्यस्य प्रथमद्वारस्य यन्मानं क्रियते तत्समानप्रमाणयोजनमेव ब्रह्मद्वारे वरमित्याद्यः पक्षः । अथवा कचिद्रङ्गशाला कल्पने नेत्रद्वारप्रमाणं षोडशवा विभज्य तत्र चतुरंशहीनप्रमाणं वाऽत्र ब्रह्मद्वारे योज्यम् ॥
अत्र तु कोऽपि कल्पनाविशेषक्रमो यथा नेत्रद्वारत्रयस्थापनवदत्रापि ब्रह्मद्वारस्थापन भागे द्वारत्रयं स्थाप्यम् । तत्रापि मध्यद्वारस्य नटादिप्रवेशनयोग्यस्य वैशाल्यादिप्रमाणाधिकथं योज्यम् । इतरयोर्द्वारियो: शोभाजनयोः किञ्चिद्धीनप्रमाणयोजनमिति । अथवा कचिदत्र रङ्गशालायां दैवगान्धर्वभागयोर्याव द्वैशास्यं तन्मानवदेव तदर्धमानकं वाऽस्य ब्रह्मद्वारस्य कल्पने
8. 8. 67