________________
५३०
रङ्गवेद्या समायुक्तं स्थलमेतन्निगद्यते ।
गायकानां स्थानकं वा निस्सा तोद्य भूमिकम् ॥ १३ ॥
तदन्तरेऽष्टभागं वा नवभागमथापि वा । विभजेत्तत्र मानज्ञः कल्पयेत्सदनं दिशि ॥ १४ ॥
पञ्चादशकरं तुङ्गमेकांश मात्र मीरितम् । पञ्चाष्टाङ्गुलमायाममेवं तन्मानमीरितम् ।। १५ ।। सव्ये नटीनां वस्त्रादीनितरस्मिन्नटस्य च ।
योज्यमिति विकल्पः । किचेनास्य ब्रह्मद्वारस्य यावद्वैशाल्यं तन्मानवत्येत्रं रङ्गवेदिका पुरतः कल्प्या सुधेष्टिकादारुप्रमुखैरिति किद्वैतस्या रङ्गवेदिकाया औन्नत्यं तु द्विहस्तादिचतुर्हस्तावधिकमिति अत्रैव नान्दीरचनेति समयः ॥
योजनीयमिति ॥
1
अपि च तादृशब्रह्मद्वारस्यान्तर्भागस्थलं अष्टधा नवधा वा विभज्य तत्र क्षुद्र गृहाणां चतुष्कमष्टकं वा स्थापयित्वा तेषां मध्यमागे क्षुद्रण्ट वा क्षुद्रशालां वा प्रकल्पयेत । एवं देवभागे कल्पितस्य तस्य मण्डपस्य पुरोभागे गन्धर्व भागारम्भस्थले सव्यभागे नटीप्रमुखानां योषितामलङ्कारासनानि, अपसव्यभागे नदादीनां पुंसामलक्रियासनानि च प्रकल्पयेदित्यर्थः । एवमेतयोर्देवगान्धर्वभागकल्पनयोर्मित्याद्यौन्नत्यं तु पञ्चदशदस्तकं