________________
५२८
दैवेऽलङ्करणं शस्तं गान्धर्वे गानमीरितम् ॥ ९ ॥ मनुष्य मागे स्थानानि कथितानि सभासदाम् । मनुष्य भागस्य पुरः स्थानं वैरिञ्चमीरितम् ॥ १० ॥
ब्रह्मद्वारन्तु तत्रस्थमखण्डानन्दवर्धकम् ।
त्र्यकल्पनमेवाहमहमिकया प्रवेशशीलानां जनानां सौकर्यावहम, एतत्कल्पनशोभाकरं रङ्गशालादेवतानामपि आनन्ददायकमिति च भावः । एतादृशनेत्रस्थानकल्पनं तु पूर्वोकदैवगान्धर्व भागमध्यतलरेखानुगुणं मध्यनेत्रम, तत्पार्श्वयोः सव्यापसव्याख्ययोरितरहूयमिति तद्विवेकः । तस्मादत्र रङ्गशाला कल्पने प्रथमतो नेत्रत्रयम, ततो मानवभागस्ततो गन्धर्वभागस्ततो देवभाग इति विभजनक्रमः पूर्वोक्तप्रमाणक इति मन्तव्यम् ॥
एवं देवगान्यभागमानत्र भागकल्पननिर्माणानां प्रयोजनं किमिति चेत्तद्विवृणोति — देवेऽलङ्करणमित्यादिना । देवभागे नटादीनां तत्तन्नाट कोचित भूमिकालक्रियादिः करणीयः । तदर्थमेव कल्पितस्य स्थानस्य दैवभागव्यवहार इति भावः । एवमुत्तरत्रापि । किचात्र रङ्गशाला कल्पने गान्धर्वभागे गायकानामासनकल्पनं निम्साण मुरळीबीणामर्दलादिस्थापनमिति । एवं मानवभागे सामाजिकानामासनस्थानकल्पनमिति तदर्थः ॥
किंचात्र रङ्गशाला निर्माण मानवगन्धर्वभागयोग मध्य तलं