________________
५२७
अथवाssवरणस्थानात्कचिद्रौ मादिभेदतः । पाङ्ग स्थापनाद्वा महिष्याद्यवलोकनम् ॥ ७ ॥
यथा स्फुटन्तु सर्वेषां तथैतत्कल्पनं वरम् । महाधिष्ठानसंयुक्तं नेत्रत्रयममन्वितम् ॥ ८ ॥ कल्पनं सुखदं नृणां देवाद्यानन्दवर्धकम् ।
कोणतं द्वादशकोणतं वा स्थापनीयमिति । एवं मानवस्थल'कल्पनं प्रथमावरणद्वितीयावरणादिस्थापनवशाद्दात्ररणवलं (स्थलं ) संविभक्तानामसहितं पार्श्वनो नानाङ्गणोपेतं, उपरिभमतलेषु स्थितांना मवरोधजनानां यथा स्फुटदर्शनं भवेत्तथाऽविरुद्धसूत्रप्रसारं विषमदृष्टिविहीनं शिल्पकन ज्ञाश्शिल्पिनः प्रकल्पयेयुरित्युपदेशः ॥
किचात्र रङ्गशालाकल्पने दृढमहाधिष्ठानयुक्तमेवाद्य तलनिर्माणं शस्तम । तत्रापि पूर्वोक्तदेवगान्धर्वभागयोरधिष्ठानमौनत्याधिक्यसहितम् । मानवभागकल्पनाधिष्ठानं तु तदपेक्षया किविदौन्नत्यद्दीनं प्रकल्पयेदिति विकल्पः ॥
एवमधिष्ठाननिर्माणक्रमं प्रतिपाद्य तदुपरि कल्पनीयनिर्माणकगमुदाहरति- नेत्रत्रयसमन्वितमित्यादिना । नैत्रस्थल नाम गोपुरद्वारमानानुगुगमहाद्वारमित्यर्थः । तादृशनेत्रत्रयेणा पै "अस्याश्शालायाः सुखस्थलं प्रकरूपनीयमिति भावः । एवं नेत्र