________________
५१२
परितोऽङ्गभाजं वा द्वारोपद्वारकान्वितम् ।
युग्माङ्गणचतुश्शालाक्रूटकां वा प्रकल्पयेत् ॥ १४ ॥
चतुष्षडष्टदशकद्वादशाधिकपादकैः : । धारितान्तरभागां वा महासुषिरकान्विताम् ॥ १५ ॥
पाश्वस्थकल्पनानुगुणपरिकल्पनक्रमः
किञ्चास्या इशालायाश्चतुष्वपि भागेषु द्वारोपद्वार संयुक्ताङ्गगानां चतुष्कं वा त्रयमथवा द्वयं प्रकल्पनीयम् । अथवा क्वचिदस्याश्शालायाः पार्श्वयोरुभयोरङ्गणान्तराङ्गणकल्पनं कार्यमिति 1 एव कांचाश्वयो: कूटागारकल्पनं वा कर्तव्यम | अपि चास्यां शालायां स्थलविभवानुगुणं दारुसुधालोहकलितानां स्तम्भानां चतुष्कं पटूकमटकं, द्वादशकमथवा पोडशकं, चतुर्विंशनिकं, क्क चिह्नात्रिंशकं, चत्वारिंशत्कं, क्वचित्तदधिकसंख्याकमपि स्थापनीयमिति स्तम्भसंख्याक्रमो बोध्यः । स्तम्भस्थापनशैली तु मण्डपलक्षणादिप्रन्येष्वपि अस्मिन्नेव शास्त्रे स्थलान्तरेपूक्तक्रमतो गुरूपदेशतश्च तक्षकादिभिर्ज्ञेयेति समयः ॥
एवमत्र कल्याणशालायां स्तम्भस्थापनानन्तरं तेषां सम्भानामुपरिभागेषु क्षुद्र बृहत्प्रमुखान्धारिकापरिकल्पनं कृत्वा तदुपरि कल्पनाच्छादनं प्रकुर्युः । अथवा भवनहर्म्यादिषु क्वचित्तेषां स्तम्भानामुपरि मौलिभागेषु सुधेष्टिका लेपनादिना
।