________________
वरस्थानद्वयोपेता स्थानत्रयसमन्विता ॥ ११ ॥ चतुःस्थानान्विता वापि पञ्चस्थानान्विताथवा । सार्धदण्डं दण्डयुगं व्याप्तेनेयमुदाहृता ॥ १२ ॥ क्वचित्तदधिकं मानमथवाङ्गणकल्पने ।
चतुष्पञ्चषदण्डान्तं स्थलयोग्यं प्रकल्पयेत् ॥ १३ ॥ इति । तम्मा द्यथाचारविभवं कल्पनीयाया अस्याः कल्याणशालायाः प्राङ्मुग्वमुदङ्मुख मथवा तत्तत्स्थलानुगुणं पश्चिम मुखं प्रकल्पनीयं । इदमेव मङ्गलकरमिति भावः । सर्वत्र शुभस्थलकल्पनेषु दक्षिणाशाया निषिद्धत्वादिति । एवं शास्त्रोक्तस्थल कल्पितद्वारोपेताया मस्यां कल्याणशालायां मध्यभागे वधूवरवेदिकासहितं घरस्थानाख्यं कल्पनमवश्यं स्थापनीयम ॥
किञ्च कैश्चिमिछल्पिभिः केचिद्देशेषु वरस्थानकल्पनमिदं चन्दनादि सारदारुमयसुधेष्टिकामयस्तम्भचतुष्कोपेतं स्थावरजङ्गमरूपं चतुरश्रप्रमाणकं पूर्वतो वह्निवेदिकोपेतं च क्रियते यथासंभवकल्पनमादरणीयमिति भावः। तस्मादत्र शालायास्समुचितस्थले सममूत्रं तादृशवधूवरस्थानकल्पनद्वयमथवा तेषां वयं, कचिश्चतुष्क कचित्पन्न वा प्रयोज्यम , नाधिकमिति । तेषां बरस्थानकल्पनानां प्रमाणन्तु साधैंकदण्डं वा दण्डयुग्ममथवा कधिहण्डानां अयं चतुर्क, पत्रकं षट्कं वा स्थलवित्तादिविभवानुगुणं सीकरणीयमिति ॥