________________
५१३
भागत्रये कुड्यभाग्वा द्वयोरेकल वा क्वचित् । शृङ्खलाकीर्णिता वापि दारुपट्टान्विताऽथवा ॥१६॥ नानाकल्पनमंयुक्ता सम्मुखस्थितशालका । नानालङ्कारसंयुक्ता युग्मायुग्मगवाक्षका ॥ १७ ।। संयुक्ता वा वियुक्ता वा कल्पनीया दृढान्तरा। सममाना समौन्नत्या शिलालोहादिकस्थला ॥ १८ ॥
दृढ सुषिरकल्पनं विरचय्य तदुपरि भूमिकायोजनं यथाविभवं स्थापनीयमिति विकल्पः । एवं कचिद स्याः कल्याणशालाया उपरिभागे भोम स्थापने तेषां भीमानां भागनयेष्वथवा भागद्वये सगवाक्ष कुड्यस्थापन कार्यम । आचरणमिदं पृथकल्पनविषयकमिति भावः ।।
____ अथ पार्श्वस्थकल्पनाविरुद्ध कल्पनेषु चतुश्शालादिमध्यकल्पने चास्याः कल्याणशालाया उपरि भौमस्थान द्वारभार्ग पिनाऽन्यत्र परितः शृङ्खलायोजनं वा दारुपट्टिकाघटनं वा स्थापनीयमिति क्रमो ज्ञयः ।।
किश्चास्यां शालायामधश्व भीमानामुपरि युग्मयुग्म. गवाक्षस्थापनं वा, एफैकगवाक्षस्थापनं वा कारयित्वा प्रथमभीमे द्वितीयभौमादिष्वपि पूर्वभागे चतुरष्टकस्तम्भभासुरां मुखशाली स्थापयित्वा नानाचित्रकल्पनादिकमपि प्रकल्पनीयम् । किम्वास्या.
8. B. 65