SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ४७७ अलिन्दभागे महती शाला तत्र प्रकीर्तिता । नवरङ्गसमोपेता मध्ये वैवाहिकी मता ।। २ ।। किश्वेतादृशप्राथमिकद्वारस्य पुरोभागे पूर्ववेदिकासहितं वा तद्रहितं वा शाला कल्पनमवश्यं कार्यम् । अस्याश्शालायाः पूर्व मुखशालेति व्यवहारः । अपि चैतस्याः पूर्व मुखशालाया वैशाल्यं साधारणदण्डपञ्चकमारभ्य दशदण्डावधिकं तदनुगुणं दधैर्यप्रमाणोपेतं स्थलं स्वीकृत्य तत्र विंशतिस्तम्भस्थापनं वा चतुर्विंशतिस्तम्भस्थापनं वा षोडशस्तम्भस्थापनमष्टस्तम्भस्थापनं वा साधिष्ठानं दृढं विरचय्य तादृशस्तम्भानामुपरि सुषिरकल्पनं ( S LDT 6 ) निधाय तदुपर्यावरणस्थलं दृढं प्रकल्पयेत् ॥ यदि तस्य सङ्कीर्णभवनस्य भौमत्रयनिर्माणं तदा तत्पुरत:स्थले एवंप्रकारेण भौमत्रयेऽपि भौमद्वार मुखशालाकल्पनं करणीयमिति शिल्पसमयः । एवं पूर्वशालाकल्पनानन्तरं द्वारस्य पश्चाद्भागे देहलीं साधारणदण्डद्वयवैशाल्योपेतां कृत्वा तद्देहलीतरणानन्तरं महती शाला त्रिभौमेषु वा भौमद्वये वा एक भौमाख्यप्रथमभौमतल एव वा निर्मापणीयम् । अस्याः शालाया विवाहशाला देहलीशालेति च नामान्तरमुशन्तीति साधवः ॥ किनास्या विवाहशालायाः कल्पनं तु चतुरश्रं व्यासहीनं वा कार्यम् । चतुरश्रशालायाः साधारणदण्डचतुष्कादिद्वादशदण्डान्तं
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy