________________
४७८
चतुष्कूटममायुक्तं कल्पनं तत्र कारयेत् । ततश्चत्वरभागाढ्यं भोजनागारमीरितम् ॥ ३॥
देध्यं तदर्थमपि आयाममानं वरमिति तद्विवेकः । एवमुक्तरीत्या अस्याश्शालाया यथेच्छकल्पनेऽपि अवश्यं शालामध्ये नानालं. कृतिभासुरां शुभवेदिका, ताश्च परित ईशानादिकोणचतुष्कभागेषु स्तम्भाष्टकं, चतुःस्तम्भं वा नवरङ्गकल्पनं स्थापयेत । नवरङ्गकल्पनं नाम कोसलवङ्ग शूरसेनमगवादिदेशेषु प्रायशः कल्प्यमानतन्नामकशैल्या चतुरश्ररूपकल्पनं प्रतिभौमोपरितलं सवातायनचतुष्क चतुष्कूटसहितश्च क्वचित्सडोलासनमिति विवेकः ।।
किञ्चैतादृशनवरङ्गकल्पनभासुरायाः पूर्वोक्तविवाहशालायाश्चतुर्ध्वपि दिक्कोणेषु क्षुद्रगृहचतुष्कं वा तदपेक्षयाधिकप्रमाणक्षुद्रसदनचतुष्कं वाऽवश्यं स्थापनीयम् । यदि तावद्वास्तुभूभागवैशाल्यं तदैतम्याः विवाहशालायाः सव्यापसव्यभागयोः क्षुद्राङ्गणद्वयमथवा द्वादशस्तम्भोपेतं क्षुद्राङ्गणशालाकल्पनं वा प्रकल्पयेदिति । अयश्च क्रमो विन्ध्यस्योत्तरदेशेषु अनुष्ठीयत इति केचित । किञ्चैतादृशविवाहशालातरणानन्तरं गृहवास्तुभागस्य पश्चिमभागारम्भे चत्वरकल्पनं विधाय तत्रापि चतुर्दिक्कोणेषु क्षुद्रगृहाणि कल्पयित्वा तेषु गृहेषु महानसमेकस्मिन् गृहे, इतरगृहे भोजनस्थानं, गृहान्तरे पाकक्रियोचिततण्डुलसूपलवण