________________
कचिदिच्छावशात्तुङ्गसुधाद्वारं सशाल कम् ॥ १ ॥ किमिति चदुच्यते । यथा - कचित्कल्पने भूपालादिभवन शैली कचिदतिधनिकभवनशैली, स्थलान्तरे साधारणमानुषगृहशैली इत्येवं त्रिविधरूपशैलीकल्पनसहितमेव सदनं सङ्कीर्णभवननामभाग्भवतीत्यर्थः ॥ ___एतत्रिविधशैलीभेदमपि क्रमेणात्रोदाहरति - कचिदित्यादिना । इदञ्च सङ्कीर्णभवनं हर्म्यप्रासादकल्पनवद्विशालवास्तु भूमौ वा निष्कुटारामसंवृतभूमौ वा कल्पनीयमिति न नियमः । परन्तु पूर्वोक्तग्रामोत्तमनगरप्रतोल्यां महावीध्यां राजवीथ्यां वा पार्श्वस्थगृहाणां मध्ये साधारणदण्डदशकमारभ्य द्विद्विदण्डप्रमाणवर्धनरीत्या विंशतिदण्डान्तप्रमाणोपेतं कल्पनं यथाविभवं स्थापयेदित्युपदेशः । किञ्च देयं तु ग्रामनगरगृहाथ विभतस्थलेवर्धभागावधिकं वा कचित् त्रिपादकमानं वेति विकल्पः । अयं क्रमः सर्वेष्वपि साधारणमानवगृहादिषु योज्य इति शिल्पसमयः ॥
किश्वेतादृशदैर्ध्यवैशाल्योपेतस्य सङ्कीर्णभवनस्य प्राथमिक मुख द्वारं तु सारदारुमयमथवा सुधेष्टिकामयं अत्युन्नतप्रमाणं वा स्थाप्यम् । एतेषु सुधेष्टिकामयद्वारेषु कवाटादिसंयोजनतदाधारभतायःकीलादिस्थापनविषयक्रमस्तु उत्तरत्र विचत्वारिंशाध्याये स्पष्टीकरिष्यत इति भावः ।।