________________
४७३
परीक्षास्थानमंयुक्तां क्लप्ताभ्यासगृहां तथा ।
सदनान्तरे पुराणपाठप्रवचनं, सदनान्तरे वेदपठनमन्यत्र सदनान्तरे तर्कपाठाभ्यासः सदनान्तरे व्याकरणपाठाभ्यास इत्यादिक्रमेण तेषां बहूनामपि सदनानां साफल्यं बोध्यमित्याशयः । किञ्चात्र विद्याशालायां शिल्पशास्त्रकारकृतनियमः कोऽपि विद्यते । यथा--पूर्वोक्तरीत्या विद्याशालाकल्पने पञ्चभौमनिर्माणे भूमिभागकल्पितप्रथमभौमसदनेषु सङ्कीर्णवर्णजानामेव नानाविधविद्याभ्यासः कार्यः । द्वितीयभौमसदनेषु शूद्राणां पाठाभ्यामस्तदुपरि तृतीयभौमतले वैश्यानां, तदुपरि चतुर्थभौमतले भत्रियाणां तदुपरि पञ्चभौमतले विप्राणामिति क्रमेण जातिपूर्वकाभ्यासक्रमः कथित इति मतान्तरमत्र स्फुरति नयविदामिति ॥
किश्चात्र विद्याशालायां प्रत्यावरणतलं प्रतिभौमतलञ्च तत्तद्विद्यार्थिनां पठितपाठचिन्तनचर्चाशालां च कचित्स्थापयेत् । तथाऽऽवरणस्य मध्यस्थले कचित क्षुद्रशाला वा मण्टपं वा विरचय्य तत्र नानाशास्त्राभ्यासादिसंप्राप्तकोशलानां विदुषां बादस्थानमासनान्वितं रचयेत् ।।
किश्वास कल्पने स्थलान्तरे उपरिभौमभागे षा तत्तत्कालोचितपरीक्षाशालान स्थापयेत् ॥
8.8.60