________________
४७४
नानाभेदयुतां भूपो राजधान्यां प्रकल्पयेत् ॥९॥ विमानाशिखरोपेतां नानाचित्रमनोहराम् । सर्वालंकारसंयुक्तां पूर्वमण्टपशोभिताम् ॥ १० ॥ सह मङ्गलघोषेण लोकक्षेमाय भूपतिः । स्थापयेच्छिल्पिभिर्विद्याशाला शुभमुहूर्तके ॥ ११ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे विद्याशालालमणकथनं नाम
चत्वारिंशोऽध्यायः॥
किव्वैतादृशलक्षणान्वितां पञ्चभौमकल्पनोपेतां नानाशास्त्राभ्यासयोग्यां विद्याशाला भूपालादिक्षत्रियाः तत्र तत्र नगरोत्तमेषु राजधान्याञ्च स्थापयेयुः। कितादृशविद्याशालायाः प्रथमद्वारस्थापनन्तु मङ्गलवाद्यवादनादिपूर्वक शुभे मुहूर्ने करणीयम् । किञ्च तादृशप्राथमिकद्वारस्य नानिदूर एव प्रदशे चतुर्भिरष्टभिर्वा युग्मपादकैर्भासुरमतिावशालं पूर्व मण्ट पञ्च नानालङ्कारोपेतं सविमानशिखरं स्थापयेदित्युपदेशः ॥
किश्चैतादृशपूर्व मण्ट पान्वितामिमां पाठशाला मध्यमा. धिष्ठानोपरि मण्टपरूपां वा शालारूपां वा नानासुषिरकल्पनभासुरां स्थलानुगुणदेयाद्युपेतां प्रकल्प्य एतस्याश्शालायास्सर्वतो दिमागेषु रसालपनसपूगकदलीमालतीकुन्दादिप्रद्धिन कारयित्वा