________________
४७२
शास्त्रशालान्वितां मध्ये वाद स्थानसमन्विताम् ॥ ८॥
नानाभौमकल्पनेऽपि एतादृशावरण द्वयस्य वा आवरणत्रयस्य वा कल्पनेऽपि प्रथमभामाख्य भूमिभौमतले यत्र यत्र स्तम्भकल्पनभित्तिस्थापनसदननिर्माणादिकं क्रियते, तदेव प्रमाणं, सैव सदन. कल्पनादिरचना, द्वितीयभामतृतीयभौमादिषु स्थापनीयेति नियमः । किं चात्र विद्याशालाकल्पने तदात्व एव कल्पनसन्धिबन्धादिदायहेतुरिति भावः । किश्चात्र विद्याशालाकल्पने प्रथमावरणे सव्यापसव्यभागयोरतिदीर्घप्रमाणकल्पनद्वयं कल्पितं किल । तत्रातिदीर्घभागे सारदारुकृतकबाट द्वयभासुरसदनान्तरसदनमपि कचित् तस्य चान्तस्सदनमपि प्रकल्पयदित्याशयः ।।
अयश्च क्रम उपरिभौमतलेऽपि नेय इति शिल्पसमयः । एवं प्रत्यावरणं प्रतिभौममनेकवातायनसहितसदनान्तस्मदन. तदन्तस्सदनकल्पनादिकं च कृत्वा तेषां सदनान्तस्सदनादीनां चतुर्वपि दिग्भागेषु तदन्तिक स्थशालाप्रवेशनाथ द्वारद्वयस्थापनं कार्यम् । एवं तत्र तत्रान्तिकस्थसदनकल्पनेष्वपि प्रवेशाहद्वारस्थापनमवश्यङ्करणीयमित्याशयः ॥
किञ्च तत्र तत्र सव्यापसव्यभागयोश्चत्वरसमीपे स्थले कल्पितमहाद्वारपुरोभागे वेदिकाङ्गण सहितक्षुद्रशाला च निर्मापजाया । अपि च तेषु सदनेष्वेकस्मिन्सदने काव्यपाठाभ्यासा