________________
४६२
मध्यशालासमोपेतं मध्यद्वारसमन्वितम् ॥ ११ ॥
कल्पनहारकोपेतं कल्पनाहतवारकम् । यथाविभवतः स्थाप्यं वाजिशालादिकल्पनम् ॥ १२ ॥ जलकुण्डयुतं विष्वक्तृणादिस्थानकैयुतम् । शृङ्खलाविकलं वापि शिलापट्टान्वितं तु वा ॥ १३ ॥
किश्चैतादृशवाजिवारणादिशालायास्तत्परिवातलस्य च मुखद्वारं प्राचीदिङ्मुख मथवादीचीदिङ्मुखं साधिष्ठानं वितलगोपुरो. ज्ज्वलं दृढार्गलकवाटसमोपेनं च कृत्वा तन्मुखभाग एव हस्त्यायुर्वेदा श्वायुर्वेदपारगाणां भिषजामाधोरणाश्ववरादीनामावामशालां गृहाणि वा स्थापयेत् । किञ्च तत्र तु वाजिवारणशालामुखभागे स्थल. वैशाल्याद्यभावे नगरमध्ये वा तस्य भिषजो वासस्थानं प्रकल्पयदिति विकल्पः ।
किश्च बाजियारणशालायाः मुखद्वारस्य पुरतःस्थले परिखाया अन्तःस्थले वा बहिर्वा गजानामश्वानां च नानागत्याद्यभ्यासयोग्य भूमि समन्ततो रक्षाशृङ्खलादियुतां निरावरणमेव स्थापयेत् । अपि च तादृशगतिशालास्थले भूभागे शिलाखण्डादियदि दृश्येत, तदा तत्सवं भृत्यैरायुधादिभिर्बहिर्व्यपोह्य तत्स्थाने मृदुसकतपुञ्ज वा वालुकाशीकरान्वा प्रसारयेत् । तथात्व एवाश्वादीनां नानागत्यभ्यासक्रियाया भूतलसौकर्यमिति भावः ॥