________________
४६३
बन्धनसंयुक्तं परिवान्वितमेव वा । गजशालां व्यापृतिकां स्थापयेद्वालुकान्विताम् ॥ १४ ॥ परिखावलये वापि तदन्तव्याससंयुताम् । महामार्गममोपेतं तत्स्थानं कल्प्यमीरितम् ॥ १५ ॥ नैमित्तिका मुखे स्थाप्या शाला मण्टपरूपिणी ।
वाजिवारणशालायाः
एवं गत्यभ्यासस्थलसहितायाः मुखद्वारद्वयेन मुखद्वारस्थलेन सह देशान्तरागतमहामार्गराजमार्गादिसम्मेलन करणीयम् । इत्थंप्रकारेण नित्यशालाया लक्षणं सङ्क्षेपेण प्रतिपादितम् ॥
अथ नैमित्तिकाया वाजिवारणशालाया लक्षणं प्रतिपादयति शास्त्रकारः । यथा - एषा नैमित्तिकशाला तु राजभवनमुख्यकल्पनस्य नातिदूरे वा, प्राथमिकद्वार भागस्य सव्येऽपसज्ये स्थले वा, आस्थानशालाया नातिदूरे पुरोभाग वा क्वचित्परिखाद्वारस्य मुखभागस्यले वाऽन्यत्र समुचितस्थले शालारूपा वा मण्टपरूपा वा स्थाध्या । तत्र च दशसंख्याकानामश्वानां वारणानामेवात्र नैमित्तिकशालायां स्थितिरसमुचितसमये युक्ता । कुत इयं शैली ? निरीक्षणादिना तद्विभवादिवर्धनायेति । तस्मात्पूर्वोक्तरीत्याऽत्रापि नैमित्तिकवाजिवारणस्थापनस्थाने क्षुद्रमङ्गणं कल्पयित्वा तन्मध्ये बाजिवारणोत्तमान् हेम भूपापट्टवस्त्रादिभिरलङ्कृत्य
1
तांस्तु स्थापयेदिति क्रमः ||