________________
४६१
प्राच्यामुदीच्यां शुभदद्वारभागेन भासुरम् || ९ ||
ढालसमोपेतकटकं गोपुरान्वितम् । यहिश्शालां क्वचित्कुर्यादाधोरणगृहान्विताम् || १० |
भिपरगृहञ्च तत्रैव स्थापयेन्नगरेऽथवा ।
किन एवं उष्टतुरगवारणादिगमनागमनाई वैशाल्योअत्योपेतद्वारान्विताङ्गणसमीपस्थलेषु मध्यचत्वरभागेषु वाजि - वारणादिसमीपस्थलेषु च तत्पिपासाशान्त्यर्थं सलिलकुण्ड कम्पन शिलामयं स्थापयित्वा तदाहारपुखच तच्छालासमीपस्थलेष्वेव पुञ्जीकुर्यात ||
किन तृणपलालयव काष्ठादि पूलजालानि तु तच्छालाभित्तेर्वहिर्भागेऽधरशृङ्खलादिभिर्वा शिलास्तम्भादिभिर्वा परिरक्षिते स्थले सर्वतः कचित्तद्विनियोगसुलभाय समुचिते स्थले स्थापयेन । किन तादृगतृणपुञ्जस्थानात किचिहूरत एव स्थले तच्छालां परितः परिखामगाघां कारयित्वा तादृशवाजिशाला दिमुखद्वारसमीपे तादृशपरिखातरणहेतुं दृढं सेतुप्रकल्पनश्च स्थापयेत् । एतावता प्रबन्धेन यदि स्थलवैशाल्यं तदा नगरवदस्या अपि बाजिवारणादिशालायाः परिखाकल्पनं कृत्वा तदन्तःस्थले तृणादिस्थापनमन्यत्र तद्न्तःस्थले सर्वदिगङ्गणं तदन्तर्महाचत्वरस्थान प्रकल्पयेदित्युक्तं भवति ॥