SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ पृथक्तलममोपेतमङ्गणानां शतावृतम् द्विगुणितत्रिगुणितप्रमाण पाहेत स्थल बन्धनस्थानामात तदनुगुणस्थलप्रमाणकथनम् ।। एवमुष्टादीनामपि यथोचितप्रमाणं शिल्पिभिरेवोह्य कल्पनीयमिति क्रमः । तथा च पूर्वोक्तरीत्या शालाया मध्यस्थितचत्वरस्थलस्य प्राच्याङ्गणे शततुरगबन्धनस्थानं, दक्षिणागणे शततुरगादिबन्धनस्थानं, प्रतीच्याङ्गण शततुरगवारणादिस्थापनमुदीच्याङ्गणे च तत्संख्याकस्थानमित्यादिक्रमेण निर्माण करणीयमिति च क्रमः । एवं चतुरङ्गणमध्यचत्वरसहितकल्प नस्यैकं वा द्वयमथवा त्रय चतुष्का मेत्याांदेम्वविभवानुगुणं पञ्चाशत्वहस्राधिकतुरगवारणोष्यादिवन्धन स्थलनिर्माणं स्थापनीयमिति पिण्डिनार्थः ।। एवं नानाङ्गण सहितबहु कल्पनेऽपि न परस्परं विषमप्रमाणादिस्थलसहितं योजनमुपपद्यते । किन्तु पट्टाभिषेकादि. शुभसमयेषु बाह्यशालाममीपस्थले सममानं पङ्क्तिशः पङ्क्तिशः तुरगादिस्थापनवत तच्छालाम्वपि समवैशाल्यादिप्रमाणयोजनमेव तेषां भूपालादीनां च क्षेमकरमित्याशयः । किञ्चैवंरीत्या तुरगवारणादिवास गाला करणे विंशतितुरगबन्धनस्थानानन्तरं प्राक्प्रत्यग्भागयोदक्षिणोत्तरभागयोश्च गजादिगमनागमनयोग्यं मध्यशालाख्यकल्पनमुरुदृढकवाटोपेतं कार्यम् ।।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy