________________
४५१
शुकानां पञ्चरः कुन्दा हरिणानां निशद्यते । परसादीनां शालका च त्रैविध्यं मुख्यमीरितम् ॥ ४ ॥
लोहदण्डं दारुदण्डं शृङ्खलान्वितमेव वा । बहुरन्धं सकटकं पञ्जरं कल्पयेद्बुधः ॥ ५ ॥
देशभेदेन वास्तुभेदेन वाञ्छानुगुणमनेकरूपमेव । तदपि प्रायश एतत्कल्पनात्रयान्तर्गतजाविकमेव भवेदिति शिल्पशास्त्रकारस्याशयो बोध्यः ॥
तादृशत्रिविधकल्पनक्रम प्रमाणादिकं यथा
-
तत्र शुक
शारिकाकीरसारसकेकीप्रमुखानां मनोहरालापनर्तनादिभासुराणां पक्षिणामावासकल्पनं कुलायपञ्जरनाम भाग्भवतीत्यर्थः । हरिणशाबकादीनामावासस्थानकल्पनं तु कुन्देति नामभाग्भवति । गोवत्मादीनामावासस्थानं तु शालानाम भजतीतिक्रमः । एवमुक्तस्य त्रिविधकल्पनस्य निर्माणस्वरूपादिकमाह - लोहदण्डमित्यादिना । तत्र शुकपञ्जरस्य निर्माणप्रकारो यथा - चतुरश्रां देयोपेतां वाऽभिन्नामदोषां सारदारुफलका मेकाङ्गुलघनयुतां स्वीकृत्य तन्मानकमेव वा किचिन्यून प्रमाणकमेव वा उपरि स्थापनीयफलकान्तरं च संगृह्य हस्तद्वयोन्नतिकं वा सार्धहस्तौन्नतिकमथवा, हस्तौन्नतिकं मध्यदण्डपालिकान्तरमूर्ध्वाधः स्थितिभाजं संयोजयेत ॥
T
अस्य विशदार्थस्तु - अधः फलकायामूर्ध्वं फलकायां च