________________
४५२
लोहदण्डमथी प्रायः कुन्ददारुमयी कचित् ।
चतुरसीमान्तेषु क्षुद्ररन्ध्रं निधाय एकदस्तोन्नतिकं तिर्यग्दण्डजालं तेषु रन्ध्रेषु नियोज्य, दृढीकृत्य पञ्जरनिर्माणं सकवाट प्रकल्पयेदित्यर्थः । तादृशतिर्यग्दण्डस्त्वयोनयो वा पित्तलमयो वा कांस्य मयस्ताम्रमयो वा सति विभवे राजतमयो वा कल्पनीय इति भाव: । अथवा दारुमयो वा स्वीकार्य: । अथवाऽयस्तन्तुशृङ्खलिनकल्पनं वा पञ्जरकल्पना स्वीकुर्यादिति । एवमूर्ध्वाध:प्रसृतानेकतिर्यग्दण्डेोपेतस्य परस्य मध्यभागे शुकाविनिवेशनार्थं, शयनार्थञ्च तत्तज्जातियोग्यमासनफल लाखण्डं च तत्समीपे सलिलान्नादिवटकपालं च तक्षको घटक: संयोजयेदितिक्रमः ॥
एवं शुक्रकीरकेको मादिखगजातीनामावासस्थानं तत्तज्जात्यनु गुणलक्षणोपेतं स्वयमृद्य शिल्ली पञ्जरान्तरादीनि च प्रकल्पये
दित्यर्थः । अथ द्वितीयस्य कुन्दाख्यहरिणशाला कल्पनस्य निर्मितिप्रकारं विशदयति- लोहदण्डमयीत्यादिना । अत्यन्तं क्षुद्रकायस्य शुकादेरावासस्थानाख्यम्य पञ्जरस्य निर्माण त्वेकहस्तायतिकं प्रथमतस्तदपेक्षया बृहत्तनूनां हरिणादीनां मृगोत्तमानामत्रावासस्थानं तु भूमितलेऽनिक्षुद्र शालारूपं स्थाप्यम् । तच्च भूतलं मसृणित शिलापट्टिकाकयचितं भवितव्यम् । अयमुत्तमः पक्षः । सुधेष्टिकादिभिर्धनीकृनमसृणित भूमिरपि च तद्व तद्वर्धनाय 1
अयं मध्यमः पक्षः ॥