________________
४४६
साक्षिवेदीकल्पनं तु तत्रत्यं क्षत्रमङ्गलम् ॥ ६ ॥ सर्वालङ्कारसंयुक्तं नवरत्नविभूषितम् । प्रदक्षिणायनयुतं काल्या वा भैरवस्य वा ॥ ७ ॥ मूलस्थानं च रचयेत्सुमहूर्ते शुभेऽहनि ।
एतादृशहोमकुण्डखगवेदिकास्थानभागस्य कुलदेवतामूलस्थानस्य च मध्यभागे मण्टपाकारं मध्यदेहलीतलसंयुक्तं सौवर्णपट्टप्रत्युप्तद्वारयुगळोपेतं साक्षिवेदीकल्पनं कार्यम् । किमर्थमिति चेदुच्यते--तस्यामेव सौवर्णपट्टकवाचितवेदिकायां राज्ञः पट्टमहिषीविवाहसमये तत्पूर्वदिने वा तदपाल द्वन्द्वं तत्स्थलं प्राप्य तदेवतायाः पुरतः प्रणम्य स्तुत्वा तत्साभिकं तत्र खड्गं निधाय स्वकीयं मिथुनसंयोजनरूपचित्रयुतं सुवर्णपट्टे निधाय प्रतिदिनं देवतापूजानन्तरं गन्धादिभिस्तत्सुवर्णपट्टमभ्ययेदिति क्षत्रिय जातिविवाह समयकरणीयक्रमः । आचरणमिदमेव क्षत्रियदम्पत्योर्मङ्गलप्रदभिति मूलकारोऽपि तत्रत्यं क्षत्रमङ्गलप्रदमिति उपपादितवानिति भावः ।।
एवं नवरत्नादिविभूषितं सर्वालङ्कारसंयुतं वेदिकातलं प्रकल्प्य तस्या वेदिकायाः कुलदेवतायाश्च प्रदक्षिणमार्गशालकं च तत्रैव स्थापयेत । एवं क्षत्रियभवनेषु सर्वेष्वपि शुभे मुहूर्ते राजखगवेदिकां कुलदेवताबिम्बस्थापनश्च समकालं विरचय्य