________________
४४५
प्राकारसंयुतः प्रायः पूर्वपश्चिमवक्त्रकः । पार्श्वशालासमायुक्तो गोपुरेण च भासुरः ॥ ३ ॥ दशहस्तोच्छ्राययुतगर्मगेहेन मासुरः । विमानशिवरापेतश्छत्रखङ्गादिचिह्नितः ॥ ४ ॥ खगवेदी पुरः स्थाप्या यदि कालीनिवेशनम् । तत्पुरः सा प्रकर्तव्या शान्तिकुम्भममन्विता ॥५॥ मौवर्णद्वारयुगलं तन्मध्ये देहलीतलम् ।
दशहस्तोच्छितमेकं प्राकारं वा प्राकारत्रयं वा निर्मापयेत् । अस्य तु नृपदेवालयस्य मुख द्वारं पूर्वदिङ्मुग्व, पश्चिमदिङ्मुखं वा कल्पयेत् । नेतरत्र शुभप्रदमिति भावः । एवं निर्दिष्टदिङ्मुखभागे कृतमुखद्वारस्य पञ्चनलगोपुरसहितस्य नृपदेवालयस्य मध्यभागे सममूवे सगोपुरं द्वितीयं मुखद्वारं स्थापयित्वा तहारभित्तिसमीप एव चतुर्वपि दिग्भागेषु क्षुद्रशालाकल्पनं सचित्र स्तम्भं स्थापयित्वा तदन्तः दशहस्तोच्छाययुतभित्तिसमावृतं गर्भगेहं प्रकल्प्य तन्मध्ये राजकुलदेवतां महाकाली वा त्रिपुरसुन्दरी महाकालं वा सौवर्णमये राजते वा पीठे स्थापयेदित्यर्थः । किञ्च तस्याः कुलदेवतायाः पुरोभागे नृपाणां मुख्यचिह्न मूतखनन्यसनवेदिका करणीया। तस्या वेदिकाया: पुरोभागे होमार्थ कुण्डपञ्चकस्थानं प्रकल्पयेत् ॥